Sri Venkateshwara Suprabhatham
19,755
Devotional & Spiritual
Sri Venkateshwara Suprabhatham was released on August 30, 2001 by Saregama as a part of the album Sri Venkatesa Suprabhatham
Melodicness
How much the song possesses a clear and memorable tune that follows well-defined musical patterns. A song high in melodicness generally features clear and memorable instrumental or vocal lines.
Acousticness
A measure of how much a song relies on acoustic instruments (eg. piano, guitar, violin, drums, saxophone) instead of electronic or digitally synthesized
Valence
The musical positivity or emotional tone conveyed through the song's harmonic and rhythmic components. High valence corresponds to feelings of happiness, excitement, and euphoria while low valence is associated with sadness, anger, or melancholy.
Danceability
A combination of factors including tempo stability, rhythmic patterns, and beat emphasis to determine how suitable a song is for dancing. A "danceable" song may feature a consistent tempo, repetitive musical structure, and strong downbeats.
Energy
The perceived intensity of a track which may be influenced by tempo, dynamics, and musical compactness. A high energy song may have a driving rhythm and dense instrumentation while a low energy song can be musically sparse and feature slower tempos.
Credits
Lyrics
ॐ
कौसल्या सुप्रजा राम पूर्वासन्ध्या प्रवर्तते
उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम्
कौसल्या सुप्रजा राम पूर्वासन्ध्या प्रवर्तते
उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम्
उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज
उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु
उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज
उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु
मातस्समस्त जगतां मधुकैटभारेः
वक्षोविहारिणि मनोहर दिव्यमूर्ते
श्रीस्वामिनि श्रितजनप्रिय दानशीले
श्री वेङ्कटेश दयिते तव सुप्रभातम्
मातस्समस्त जगतां मधुकैटभारेः
वक्षोविहारिणि मनोहर दिव्यमूर्ते
श्रीस्वामिनि श्रितजनप्रिय दानशीले
श्री वेङ्कटेश दयिते तव सुप्रभातम्
तव सुप्रभातमरविन्द लोचने
भवतु प्रसन्नमुख चन्द्रमण्डले
विधि शङ्करेन्द्र वनिताभिरर्चिते
वृश शैलनाथ दयिते दयानिधे
अत्र्यादि सप्त ऋषयस्समुपास्य सन्ध्यां
आकाश सिन्धु कमलानि मनोहराणि
आदाय पादयुग मर्चयितुं प्रपन्नाः
शेषाद्रि शेखर विभो तव सुप्रभातम्
पञ्चाननाब्ज भव षण्मुख वासवाद्याः
त्रैविक्रमादि चरितं विबुधाः स्तुवन्ति
भाषापतिः पठति वासर शुद्धि मारात्
शेषाद्रि शेखर विभो तव सुप्रभातम्
ईशत्प्रफुल्ल सरसीरुह नारिकेल
पूगद्रुमादि सुमनोहर पालिकानाम्
आवाति मन्दमनिलः सहदिव्य गन्धैः
शेषाद्रि शेखर विभो तव सुप्रभातम्
उन्मील्यनेत्र युगमुत्तम पञ्जरस्थाः
पात्रावसिष्ट कदली फल पायसानि
भुक्त्वाः सलील मथकेलि शुकाः पठन्ति
शेषाद्रि शेखर विभो तव सुप्रभातम्
तन्त्री प्रकर्ष मधुर स्वनया विपञ्च्या
गायत्यनन्त चरितं तव नारदोऽपि
भाषा समग्र मसत्-कृतचारु रम्यं
शेषाद्रि शेखर विभो तव सुप्रभातम्
भृङ्गावली च मकरन्द रसानु विद्ध
झुङ्कारगीत निनदैः सहसेवनाय
निर्यात्युपान्त सरसी कमलोदरेभ्यः
शेषाद्रि शेखर विभो तव सुप्रभातम्
योषागणेन वरदध्नि विमथ्यमाने
घोषालयेषु दधिमन्थन तीव्रघोषाः
रोषात्कलिं विदधते ककुभश्च कुम्भाः
शेषाद्रि शेखर विभो तव सुप्रभातम्
पद्मेशमित्र शतपत्र गतालिवर्गाः
हर्तुं श्रियं कुवलयस्य निजाङ्गलक्ष्म्याः
भेरी निनादमिव भिभ्रति तीव्रनादम्
शेषाद्रि शेखर विभो तव सुप्रभातम्
श्रीमन्नभीष्ट वरदाखिल लोक बन्धो
श्री श्रीनिवास जगदेक दयैक सिन्धो
श्री देवता गृह भुजान्तर दिव्यमूर्ते
श्री वेङ्कटाचलपते तव सुप्रभातम्
श्रीमन्नभीष्ट वरदाखिल लोक बन्धो
श्री श्रीनिवास जगदेक दयैक सिन्धो
श्री देवता गृह भुजान्तर दिव्यमूर्ते
श्री वेङ्कटाचलपते तव सुप्रभातम्
श्री स्वामि पुष्करिणिकाप्लव निर्मलाङ्गाः
श्रेयार्थिनो हरविरिञ्चि सनन्दनाद्याः
द्वारे वसन्ति वरनेत्र हतोत्त माङ्गाः
श्री वेङ्कटाचलपते तव सुप्रभातम्
श्री शेषशैल गरुडाचल वेङ्कटाद्रि
नारायणाद्रि वृषभाद्रि वृषाद्रि मुख्याम्
आख्यां त्वदीय वसते रनिशं वदन्ति
श्री वेङ्कटाचलपते तव सुप्रभातम्
सेवापराः शिव सुरेश कृशानुधर्म
रक्षोम्बुनाथ पवमान धनाधि नाथाः
बद्धाञ्जलि प्रविलसन्निज शीर्षदेशाः
श्री वेङ्कटाचलपते तव सुप्रभातम्
धाटीषु ते विहगराज मृगाधिराज
नागाधिराज गजराज हयाधिराजाः
स्वस्वाधिकार महिमाधिक मर्थयन्ते
श्री वेङ्कटाचलपते तव सुप्रभातम्
सूर्येन्दु भौम बुधवाक्पति काव्यशौरि
स्वर्भानुकेतु दिविशत्परिशत्प्रधानाः
त्वद्दासदास चरमावधि दासदासाः
श्री वेङ्कटाचलपते तव सुप्रभातम्
तत्पादधूलि भरित स्फुरितोत्तमाङ्गाः
स्वर्गापवर्ग निरपेक्ष निजान्तरङ्गाः
कल्पागमा कलनयाऽऽकुलतां लभन्ते
श्री वेङ्कटाचलपते तव सुप्रभातम्
त्वद्गोपुराग्र शिखराणि निरीक्षमाणाः
स्वर्गापवर्ग पदवीं परमां श्रयन्तः
मर्त्या मनुष्य भुवने मतिमाश्रयन्ते
श्री वेङ्कटाचलपते तव सुप्रभातम्
श्री भूमिनायक दयादि गुणामृताब्दे
देवादिदेव जगदेक शरण्यमूर्ते
श्रीमन्ननन्त गरुडादिभि रर्चिताङ्घ्रे
श्री वेङ्कटाचलपते तव सुप्रभातम्
श्री पद्मनाभ पुरुषोत्तम वासुदेव
वैकुण्ठ माधव जनार्धन चक्रपाणे
श्री वत्स चिह्न शरणागत पारिजात
श्री वेङ्कटाचलपते तव सुप्रभातम्
कन्दर्प दर्प हर सुन्दर दिव्य मूर्ते
कान्ता कुचाम्बुरुह कुट्मल लोलदृष्टे
कल्याण निर्मल गुणाकर दिव्यकीर्ते
श्री वेङ्कटाचलपते तव सुप्रभातम्
मीनाकृते कमठकोल नृसिंह वर्णिन्
स्वामिन् परश्वथ तपोधन रामचन्द्र
शेषांशराम यदुनन्दन कल्किरूप
श्री वेङ्कटाचलपते तव सुप्रभातम्
एलालवङ्ग घनसार सुगन्धि तीर्थं
दिव्यं वियत्सरिति हेमघटेषु पूर्णम्
धृत्वाद्य वैदिक शिखामणयः प्रहृष्टाः
तिष्ठन्ति वेङ्कटपते तव सुप्रभातम्
भास्वानुदेति विकचानि सरोरुहाणि
सम्पूरयन्ति निनदैः ककुभो विहङ्गाः
श्रीवैष्णवाः सतत मर्थित मङ्गलास्ते
धामाश्रयन्ति तव वेङ्कट सुप्रभातम्
ब्रह्मादय स्सुरवरा स्समहर्षयस्ते
सन्तस्सनन्दन मुखास्त्वथ योगिवर्याः
धामान्तिके तव हि मङ्गलवस्तुहस्ताः
श्री वेङ्कटाचलपते तव सुप्रभातम्
लक्श्मीनिवास निरवद्य गुणैक सिन्धो
संसारसागर समुत्तरणैक सेतो
वेदान्त वेद्य निजवैभव भक्त भोग्य
श्री वेङ्कटाचलपते तव सुप्रभातम्
लक्श्मीनिवास निरवद्य गुणैक सिन्धो
संसारसागर समुत्तरणैक सेतो
वेदान्त वेद्य निजवैभव भक्त भोग्य
श्री वेङ्कटाचलपते तव सुप्रभातम्
इत्थं वृषाचलपतेरिह सुप्रभातं
ये मानवाः प्रतिदिनं पठितुं प्रवृत्ताः
तेषां प्रभात समये स्मृतिरङ्गभाजां
प्रज्ञां परार्थ सुलभां परमां प्रसूते
इत्थं वृषाचलपतेरिह सुप्रभातं
ये मानवाः प्रतिदिनं पठितुं प्रवृत्ताः
तेषां प्रभात समये स्मृतिरङ्गभाजां
प्रज्ञां परार्थ सुलभां परमां प्रसूते
कमलाकुच चूचुक कुङ्कमतो
नियतारुणि तातुल नीलतनो
कमलायत लोचन लोकपते
विजयीभव वेङ्कट शैलपते
कमलाकुच चूचुक कुङ्कमतो
नियतारुणि तातुल नीलतनो
कमलायत लोचन लोकपते
विजयीभव वेङ्कट शैलपते
सचतुर्मुख षण्मुख पञ्चमुख
प्रमुखा खिलदैवत मौलिमणे
शरणागत वत्सल सारनिधे
परिपालय मां वृष शैलपते
अतिवेलतया तव दुर्विषहै
रनु वेलकृतै रपराधशतैः
भरितं त्वरितं वृष शैलपते
परया कृपया परिपाहि हरे
अधि वेङ्कट शैल मुदारमतेर्
जनताभि मताधिक दानरतात्
परदेवतया गदितानिगमैः
कमलादयितान्न परङ्कलये
कल वेणुर वावश गोपवधू
शत कोटि वृतात्स्मर कोटि समात्
प्रति पल्लविकाभि मतात्सुखदात्
वसुदेव सुतान्न परङ्कलये
अभिराम गुणाकर दाशरधे
जगदेक धनुर्थर धीरमते
रघुनायक राम रमेश विभो
वरदो भव देव दया जलधे
अवनी तनया कमनीय करं
रजनीकर चारु मुखाम्बुरुहम्
रजनीचर राजत मोमि हिरं
महनीय महं रघुराममये
सुमुखं सुहृदं सुलभं सुखदं
स्वनुजं च सुकायम मोघशरम्
अपहाय रघूद्वय मन्यमहं
न कथञ्चन कञ्चन जातुभजे
विना वेङ्कटेशं न नाथो न नाथः
सदा वेङ्कटेशं स्मरामि स्मरामि
हरे वेङ्कटेश प्रसीद प्रसीद
प्रियं वेङ्कटेश प्रयच्छ प्रयच्छ
विना वेङ्कटेशं न नाथो न नाथः
सदा वेङ्कटेशं स्मरामि स्मरामि
हरे वेङ्कटेश प्रसीद प्रसीद
प्रियं वेङ्कटेश प्रयच्छ प्रयच्छ
अहं दूरदस्ते पदां भोजयुग्म
प्रणामेच्छया गत्य सेवां करोमि
सकृत्सेवया नित्य सेवाफलं त्वं
प्रयच्छ पयच्छ प्रभो वेङ्कटेश
अज्ञानिना मया दोषा न शेषान्विहितान् हरे
क्षमस्व त्वं क्षमस्व त्वं शेषशैल शिखामणे
अज्ञानिना मया दोषा न शेषान्विहितान् हरे
क्षमस्व त्वं क्षमस्व त्वं शेषशैल शिखामणे
ईशानां जगतोऽस्य वेङ्कटपतेर्विष्णोः परां प्रेयसीं
तद्वक्षस्स्थलनित्यवासरसिकां तत्क्षान्तिसंवर्धिनीम्
पद्मालङ्कृतपाणिपल्लवयुगां पद्मासनस्थां श्रियं
वात्सल्यादिगुणोज्ज्वलां भगवतीं वन्दे जगन्मातरम्
ईशानां जगतोऽस्य वेङ्कटपतेर्विष्णोः परां प्रेयसीं
तद्वक्षस्स्थलनित्यवासरसिकां तत्क्षान्तिसंवर्धिनीम्
पद्मालङ्कृतपाणिपल्लवयुगां पद्मासनस्थां श्रियं
वात्सल्यादिगुणोज्ज्वलां भगवतीं वन्दे जगन्मातरम्
श्रीमन् कृपाजलनिधे कृतसर्वलोक
सर्वज्ञ शक्त नतवत्सल सर्वशेषिन्
स्वामिन् सुशील सुलभाश्रितपारिजात
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये
श्रीमन् कृपाजलनिधे कृतसर्वलोक
सर्वज्ञ शक्त नतवत्सल सर्वशेषिन्
स्वामिन् सुशील सुलभाश्रितपारिजात
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये
आनूपुरार्पितसुजातसुगन्धिपुष्प
सौरभ्यसौरभकरौ समसन्निवेशौ
सौम्यौ सदानुभवनेऽपि नवानुभाव्यौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये
सद्योविकासिसमुदित्वरसान्द्रराग
सौरभ्यनिर्भरसरोरुहसाम्यवार्ताम्
सम्यक्षु साहसपदेषु विलेखयन्तौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये
रेखामयध्वजसुधाकलशातपत्र
वज्राङ्कुशाम्बुरुहकल्पकशङ्खचक्रैः
भव्यैरलङ्कृततलौ परतत्त्वचिह्नैः
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये
ताम्रोदरद्युतिपराजितपद्मरागौ
बाह्यैर्महोभिरभिभूतमहेन्द्रनीलौ
उद्यन्नखांशुभिरुदस्तशशाङ्कभासौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये
सप्रेमभीति कमलाकरपल्लवाभ्यां
संवाहनेऽपि सपदि क्लममादधानौ
कान्ताववाङ्मनसगोचरसौकुमार्यौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये
लक्ष्मीमहीतदनुरूपनिजानुभाव
नीलादिदिव्यमहिषीकरपल्लवानाम्
आरुण्यसङ्क्रमणतः किल सान्द्ररागौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये
नित्यान्नमद्विधिशिवादिकिरीटकोटि
प्रत्युप्तदीप्तनवरत्नमहःप्ररोहैः
नीराजनाविधिमुदारमुपादधानौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये
विष्णोः पदे परम इत्युदित प्रशंसौ
यौ मध्व उत्स इति भोग्यतयाऽप्युपात्तौ
भूयस्तथेति तव पाणितलप्रदिष्टौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये
पार्थाय तत्सदृशसारथिना त्वयैव
यौ दर्शितौ स्वचरणौ शरणं व्रजेति
भूयोऽपि मह्यमिह तौ करदर्शितौ ते
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये
मन्मूर्ध्नि कालियफणे विकटाटवीषु
श्रीवेङ्कटाद्रिशिखरे शिरसि श्रुतीनाम्
चित्तेऽप्यनन्यमनसां सममाहितौ ते
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये
अम्लानहृष्यदवनीतलकीर्णपुष्पौ
श्रीवेङ्कटाद्रिशिखराभरणायमानौ
आनन्दिताखिलमनोनयनौ तवैतौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये
प्रायः प्रपन्नजनताप्रथमावगाह्यौ
मातुः स्तनाविव शिशोरमृतायमानौ
प्राप्तौ परस्परतुलामतुलान्तरौ ते
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये
सत्त्वोत्तरैः सततसेव्यपदाम्बुजेन
संसारतारकदयार्द्रदृगञ्चलेन
सौम्योपयन्तृमुनिना मम दर्शितौ ते
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये
सत्त्वोत्तरैः सततसेव्यपदाम्बुजेन
संसारतारकदयार्द्रदृगञ्चलेन
सौम्योपयन्तृमुनिना मम दर्शितौ ते
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये
श्रीश श्रिया घटिकया त्वदुपायभावे
प्राप्ये त्वयि स्वयमुपेयतया स्फुरन्त्या
नित्याश्रिताय निरवद्यगुणाय तुभ्यं
स्यां किङ्करो वृषगिरीश न जातु मह्यम्
श्रीश श्रिया घटिकया त्वदुपायभावे
प्राप्ये त्वयि स्वयमुपेयतया स्फुरन्त्या
नित्याश्रिताय निरवद्यगुणाय तुभ्यं
स्यां किङ्करो वृषगिरीश न जातु मह्यम्
श्रियः कान्ताय कल्याणनिधये निधयेऽर्थिनाम्
श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम्
श्रियः कान्ताय कल्याणनिधये निधयेऽर्थिनाम्
श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम्
लक्ष्मी सविभ्रमालोकसुभ्रूविभ्रमचक्षुषे
चक्षुषे सर्वलोकानां वेङ्कटेशाय मङ्गलम्
श्रीवेङ्कटाद्रिशृङ्गाग्र मङ्गलाभरणाङ्घ्रये
मङ्गलानां निवासाय श्रीनिवासाय मङ्गलम्
सर्वावयवसौन्दर्यसम्पदा सर्वचेतसाम्
सदा सम्मोहनायास्तु वेङ्कटेशाय मङ्गलम्
नित्याय निरवद्याय सत्यानन्दचिदात्मने
सर्वान्तरात्मने श्रीमद्वेङ्कटेशाय मङ्गलम्
स्वतस्सर्वविदे सर्वशक्तये सर्वशेषिणे
सुलभाय सुशीलाय वेङ्कटेशाय मङ्गलम्
परस्मै ब्रह्मणे पूर्णकामाय परमात्मने
प्रयुञ्जे परतत्त्वाय वेङ्कटेशाय मङ्गलम्
आकालतत्त्वमश्रान्तमात्मनामनुपश्यताम्
अतृप्त्यमृतरूपाय वेङ्कटेशाय मङ्गलम्
प्रायस्स्वचरणौ पुंसां शरण्यत्वेन पाणिना
कृपयाऽऽदिशते श्रीमद्वेङ्कटेशाय मङ्गलम्
दयामृततरङ्गिण्यास्तरङ्गैरिव शीतलैः
अपाङ्गैः सिञ्चते विश्वं वेङ्कटेशाय मङ्गलम्
स्रग्भूषाम्बरहेतीनां सुषमावहमूर्तये
सर्वार्तिशमनायास्तु वेङ्कटेशाय मङ्गलम्
श्रीवैकुण्ठविरक्ताय स्वामिपुष्करिणीतटे
रमया रममाणाय वेङ्कटेशाय मङ्गलम्
श्रीवैकुण्ठविरक्ताय स्वामिपुष्करिणीतटे
रमया रममाणाय वेङ्कटेशाय मङ्गलम्
श्रीमत्सुन्दरजामातृमुनिमानसवासिने
सर्वलोकनिवासाय श्रीनिवासाय मङ्गलम्
मङ्गलाशासनपरैर्मदाचार्यपुरोगमैः
सर्वैश्च पूर्वैराचार्यैः सत्कृतायास्तु मङ्गलम्
Written by: Bharat Kumar Jain, Traditional

